457 द्रव्याणां प्रधानक्रियाध्यारोपे धर्मिधर्माध्यासे मेलितं नाम समाधेरेव भेदो भवति ।

देहो व्व इत्यादि । ‘देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः । गलति रुधिरमिव संध्या घूर्णते केशकृष्णं शिर इव तिमिरम् ॥’ इह दिनमङ्गमिव पतति, रक्तः सूर्यः कण्ठच्छेद इव भवति, रक्तमिव संध्या गलति, तिमिरं केशश्यामं शिर इव घूर्णते इतस्ततो याति । अत्र पतनादयः क्रियाः, लौहित्यादयो गुणाः, प्रधानक्रियाः पततीत्यादिकाः, तदध्यारोपो दिवसादिषु । इति समाध्युक्त्यलंकारनिरूपणम् ॥

समासोक्त्यलंकारनिरूपणम् ॥

समासोक्तिं लक्षयति—

यत्रोपमानादेवैतदुपमेयं प्रतीयते ।
अतिप्रसिद्धेस्तामाहुः समासोक्तिं मनीषिणः ॥ ४६ ॥
प्रतीयमाने वाच्ये वा सादृश्ये सोपजायते ।
श्लाघां गर्हामुभे नोभे तदुपाधीन्प्रचक्षते ॥ ४७ ॥
विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा ।
अस्त्यसावपराप्यस्ति तुल्यातुल्यविशेषणा ॥ ४८ ॥
संक्षेपेणोच्यते यस्मात्समासोक्तिरियं ततः ।
सैवान्योक्तिरनन्योक्तिरुभयोक्तिश्च कथ्यते ॥ ४९ ॥

यत्रेति । यत्रातिप्रसिद्धतयोपमानादेवैतस्योपमेयस्य ज्ञानं सा समासोक्तिः । समसनं समासः संक्षेपस्तदुक्तिरित्यन्वर्थतापि । प्रतीयमाने ज्ञायमाने वाच्येऽभिधीयमाने च सादृश्ये । श्लाघां प्रशंसाम्, गर्हां निन्दाम् । उभे श्लाघागर्हे च, नोभे अश्लाघागर्हे चैतानुपाधीन्प्रयोजकान् समासोक्तौ वदन्ति । विशेष्यमात्राभ्यां युक्तायुक्ताभ्यां भिन्नापि विशेषणद्वयभेदवती एका तुल्याकारविशेषणा, उपरा तुल्यातुल्यविशेषणा । संक्षेपोक्तौ च प्रकारद्वयं भवति तदाह—अन्येत्यादि ॥

तत्र प्रतीयमानसादृश्या श्लाघावती यथा—

‘उत्तुङ्गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किमङ्ग ्तस्य वचसा श्लाघासु पर्याप्यते ।