459 घना निबिडा छाया यस्य तादृशोऽसि तदा छायया किं वृथा । यदि संपन्नः समृद्धः सन् फलितोऽसि तदा फलभरैस्तव किम् । किंतु न तव किमपि । यद्याढयोऽसि महानसि तदा सम्यक्प्रकारेण नतः किम् । संप्रत्यधुना स्वैर्निजैरेव दुश्चेष्टितैर्जनतो लोकात्त्वं शिखायामग्रभागे शाखाशतस्याकर्षणमाकृष्टिः, क्षोभश्चालनम्, आमोटनं संकोचनम्, भञ्जनं छेदनमेतानि सहस्वानुभव । ‘आढ्य इभ्ये महत्यपि’ इति विश्वः । सहस्वेति ‘षह मर्षणे’ इति लोटि मध्यमपुरुषैकवचने रूपम् । ‘अग्रमात्रे शिखा मता’ इति धरणिः । जनत इति पञ्चम्यन्तात्तसिः । व्याजगर्हणा कपटनिन्दा वटवृक्षनिन्दां व्याजीकृत्य सत्पुरुषनिन्दोपक्रमात् ॥

सैवोभयवती यथा—

‘निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले जम्बालाविलमम्बु कर्तुमपरा सूते वराही सुतान् ।
दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ९४’

अत्र पूर्वार्धे गर्हा, उत्तरार्धे श्लाघा गम्यते, सेयं प्रतीयमानसादृश्योभयवती समासोक्तिः ।

निष्कन्दामित्यादि । इतरान्या वराही सूकरी सुतान् सूकरान् सूते जनयति । किं कर्तुम् । अरविन्दिनीं निष्कन्दामुन्मूलितमूलां कर्तुं, स्थपुटितो निम्नोन्नतीकृत उद्देशो यस्यास्तादृशीं स्थलीं कर्तुं, पल्वलेऽल्पसरसि अम्बु जलं जम्बालेन कर्दमेनाविलमनच्छं कर्तुम् । सा पोत्रिणी वराही पुत्रिणी प्रशस्तपुत्रवती । यस्याः शिशोरेव बालकस्यैव दंष्ट्रायामियं भूर्विपदि प्रलये स्थिता । दंष्ट्रायां कीदृश्याम् । चतुर्णामर्णवानां समुद्राणामूर्भिपटलैः कल्लोलसमूहैराप्लावितायां पूरितायाम् । व्याप्तायामिति यावत् । ‘जम्बालः पङ्कोऽस्त्री’ इत्यमरः । वराहीति ‘पुंयोगादाख्यायाम् ४।१।४८’ इति ङीष् । पुत्रिणीति प्रशंसायामिनिः । ‘वराहः सूकरो गृष्टिः कोलः पोत्री’ इत्यमरः । अत्रोभयोः सादृश्यं वराहत्वादिना प्रतीयमानम् ॥