अर्थबाधयैव प्रत्येतव्या यथा—
अत्र ते किल पशवो वयं सुधिय इति मृगाणामसाक्षादमिनन्दनं तेनेयमस्तोतव्यानाममीषां वाक्यार्थत्वेन स्तुतिप्रतीतेः प्रत्येतव्या नामाप्रस्तुतप्रशंसा मनस्विनोऽर्थसिद्धिं बाधते ॥
काममित्यादि । हरिणा वनेष्वप्रयत्नतः सुलभेन तृणेन काममत्यर्थं जीवन्ति । धनिषु धनिकेषु दैन्यं न विदधति न कुर्वन्ति । तथापि ते हरिणाः पशवो वयं पुनः सुधियः पण्डिताः । किल प्रसिद्धौ निश्चये वा । ‘अत्यर्थेऽनुमतौ कामम्’ इति विश्वः । अत्र मृगाणां न साक्षादभिनन्दनम्, किंतु तत्प्रतीयत इतीयं प्रत्येतव्या । अत्राप्यर्थबाधा मनस्विन एव ॥
कामबाघया वाच्या यथा—
अत्र धन्यास्ता यासां त्वं न वल्लभ इति येयमतिरक्तायाः साक्षादस्तोतव्यस्तुतिः सेयं वाच्या नामाप्रस्तुतप्रशंसा तस्या एव कामसिद्धिं बाधते ॥
णेत्यादि । ‘न मुञ्चन्ति दीर्घश्वासं न रुदन्ति न भवन्ति विरहकृशाः । धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम् ॥’ नायिकां नायकविशेषवतीं दृष्ट्वा तत्सखी नायकमुपगम्य तस्या अनुरागं दशां चाह—न मुञ्चतीति । हे बहुवल्लभ, ता नाथिका धन्या दीर्घश्वासं विरहजं न त्यजन्ति, न रूदन्ति, विरहकृशाश्च न