477

सा स्तुत्यर्था यथा—

‘आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ १२१ ॥’

अत्र रामस्य राज्याभिषेकवनगमनयोः पितुरादेशेन तुल्यरूपतया स्तुतिः प्रतीयते ॥

आहूतस्येत्यादि । अभिषेकाय राज्याभिषेकायाहूतस्य कृताह्वानस्य, वनाय वनं गन्तुं विसृष्टस्य च तस्य रामस्य स्वल्पोऽप्याकारविभ्रम आकारान्यथात्वं मया न लक्षितः । ‘अन्यथात्वेऽपि विभ्रमः’ इति धरणिः । अत्र राज्याभिषेकः सुखहेतुः, वनगमनं दुःखहेतुः, तयोः पितृभक्त्या तुल्यत्वेन स्तुतित्वम् ॥

निन्दार्था यथा—

‘यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा ।
यश्चैन गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥ १२२ ॥’

अत्र यः परशुना छिनत्ति, योऽमुं मधुसर्पिषा सिञ्चति, यो वा गन्धमाल्याभ्यामर्चति तं प्रति तुल्यमेव निम्बस्य कटुत्वमिति समासोक्त्या तदुपमेयस्य निन्दा प्रतीयते ॥

यश्चेत्यादि । यो निम्बवृक्षं परशुना कुठारेण छिनत्ति, यश्चैनं निम्बं मधुसर्पिषा मधुसहितेन घृतेन सिञ्चति, यश्चैनं गन्धमाल्याभ्यामर्चति सर्वस्य कृते स निम्बः कटुरेव तिक्त एव । ‘पुष्पपुष्पस्रजोर्माल्यम्’ इत्यमरः । अत्र समासोक्तया समसनेन । साम्यापादनेनेति यावत् । उपमेयनिन्दज्ञानम् ॥ इति तुल्ययोगितालंकारानिरूपणम् ॥

लेशालंकारनिरूपणम् ।

लेशलक्षणमाह—

दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः ।
स लेशः स्यात्ततो नान्या व्याजस्तुतिरपीष्यते ॥ ५६ ॥

दोषस्येति । दोषस्य गुणत्वम्, गुणस्य च दोषत्वं यत्तदेव लेशलक्षणम् । तर्हि व्याजस्तुतावप्येवम् । तथा चातिव्याप्तिः । अत उक्तम्—तत इति । ततो लेशाव्द्याजस्तुतिरभिन्नैवेति । नातिव्याप्तिरित्यर्थः ॥