494

मिश्रो यथा—

‘अलं विवादेन यथा श्रुतं त्वया तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते १४८’

अत्र ‘अलं विवादेन’ इति निषेधेन, ‘तथाविधः सोऽस्तु—’ इति विधिना च तन्मतमवस्थाप्य, ‘ममात्र भावैकरसं मनः स्थितम्’ इति विधिना, ‘न कामवृत्तिर्वचनीयमीक्षते’ इति प्रतिषेधेन च यत्पुनराक्षिपति, सोऽयं विधिनिषेधाभ्यां विधिमिश्र आक्षेपो भवति ॥

अलमित्यादि । त्वया यथा श्रुतं तत्र विवादेनालं निष्फलम् । अशेषं समग्रं यथा स्यादेवं स तावत्तथाविध एवास्तु । मम मनोऽत्र भावैकरसमभिप्रायवशं स्थितमस्ति । यद्यपि भवे विरूपाक्षत्वादिकं त्वदुक्तं वर्तते, तथापि मन्मनस्तदेकपरमित्यर्थः । अत्र हेतुः कामवृत्तिरिच्छाव्यापारो वचनीयं वक्तव्यं नेक्षते न पश्यति । 174इच्छा न परार्थयोज्या भवतीत्यर्थः । अत्र निषेधविधिभ्यां तन्मतस्थापनरूपस्य विधेर्विघिनिषेधाभ्यामाक्षेप इति विध्याक्षेपोऽयं मिश्रः ॥

निषेधाक्षेपः शुद्धो यथा—

‘कुतः कुवलयं कर्णे करोषि कलभाषिणि ।
किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥ १४९ ॥’

अत्र ‘कुतः कुवलयं कर्णे करोषि’ इत्यस्य निषेधवाक्यस्य ‘किमपाङ्गम्—’ इत्यादिना प्रश्नपरेणापि निषेधपर्यवसायिना वाक्येन समर्थनं क्रियत इत्ययं शुद्धो निषेधाक्षेपः ॥

कुत इत्यादि । हे कलभाषिणि मधुरवचने, कस्मान्नीलोत्पलं कर्णे करोषि । कुत इति प्रतिषेधे हेतुमाह—अस्मिन् कर्मणि कामिवशीकरणादौ किमपाङ्गं नेत्रप्रान्तमपर्याप्तमसमर्थं त्वं मन्यसे । अत्र निषेधस्य निषेधपर्यवसायिवाक्येन क्षेपणान्निषेधाक्षेपः । शुद्धता च कैवल्येन ॥

  1. ‘कामावृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति । नहि स्वेच्छाचारिणो लोकापवादाद्बिभ्यतीति भावः ।’ इति मल्लिनाथव्याख्यानमेवात्र साधीयः