508

तेषु क्रियापरिकरो यथा—

‘ववसिअणिवेइअत्थो सो मारुइलद्धपच्चआगअहरिसम् ।
सुग्गीवेण उरत्थलवणमालामलिअमहुअरं उवऊढो ॥ १७१ ॥’
[व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम् ।
सुग्रीवेणोरःस्थलवनमालामृदितमधुकरमुपगूढः ॥]

अत्र ‘मारुतिलब्धप्रत्ययागतहर्षम्’ इत्यनेन, ‘उरःस्थलवनमालामृदितमधुकरम्’ इत्यनेन चोपगूहनक्रियायाः परिकरितत्वादयं क्रियापरिकरः ॥

ववसिअ इत्यादि । “व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम् । सुग्रीवेणोरः स्थलवनमालामृदितमधुकरमुपगूढः ॥” इह स विभीषणः सुग्रीवेणोपगूढ आलिङ्गितः । कीदृशः । व्यवसितस्य व्यवसायस्य निवेदितोऽर्थो येन सः । यद्वा व्यवसितश्चिकीर्षितो रामसाहाय्यरूपो निवेदितोऽर्थो येन सः । मारुतिना हनूमता लब्धप्रत्ययेन प्राप्तविश्वासेनागतहर्षं यथा स्यादेवमुरःस्थलस्य वनमालायां मृदिता मधुकरा यत्र तद्यथा स्यादेवमित्युपगूहनक्रियाया विशेषणद्वयम् । ‘प्रत्ययः सहजे ज्ञाने विश्वासाचारहेतुषु ।’ इति मेदिनीकारः । अत्र प्रधानक्रियाया विशेषणद्वयेन परिष्कृतत्वात्क्रियापरिकरत्वम् ॥

कारकपरिकरो यथा—

‘पडिआ अ हत्थसिढिलिअणिरोहपण्डरसमूससन्तकवोला ।
पेल्लिअवामपओहरविसमुण्णअदाहिणत्थणी जणअसुआ ॥ १७२ ॥’
[पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला ।
प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता ॥]

अत्र ‘हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला’ इत्यनेन, ‘प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी’ इत्यनेन च 178‘जनकसुता’ इति च कारकपदस्य परिकरितत्वादयं कारकपरिकरः ॥

पडिआअ इत्यादि । “पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला । प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता ॥” इह जनकसुता

  1. ‘जनकसुता इत्यनेन च’ इति ग