514 कुत्साप्रतिपादनम् । कुत्सामेवाह—या हीति । तथा च तद्विशेषयोगाद्बहुत्वमित्येवाह—ताभिरिति । उपमानोपमेयसंबन्धेन जनितोऽभेदो यस्याः सा । भेदपरिग्रहाद्भेदपुरस्कारात् । लकारेण भावप्रत्ययेन । लकारवाच्यमर्थमाह—तेनेति ॥

क्वचित् पुनर्बाह्यमपि कृद्रूपं कृदर्थरूपं वा क्रियाविशेषणं भवति । यथा—

‘शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः सहस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः ।
कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटय- स्तथापि क्लिश्यन्मां क्षणमपि न धृष्टो विरमति ॥ १८० ॥’

अत्र ‘वारान्’ इति वारशब्दः कृदन्तः । वारसंख्यायाः कृत्वसुजिति कृत्वसुच् कृदर्थः । ताविमौ द्वावप्यावृत्तिरूपेण क्रियाया विशेः षणं भवतः । नन्वेवमुष्ट्रासिकादीनां 179 वारादीनां च क्रियाविशेषणत्वात् कर्मतेव नपुंसकलिङ्गतापि प्राप्नोति । यथा—मृदु पचति, प्रशस्तं, पठतीति । उच्यते । त्रिधा खलु क्रियाविशेषणं भवति— बाह्यम्, आभ्यन्तरम्, बाह्याभ्यन्तरं च । तत्र बाह्यं कर्मरूपं वारादि, आभ्यन्तरं विशेषरूपमुष्ट्रासिकादि, बाह्याभ्यन्तरं180 गुणरूपं मृद्वादि । तेषु बाह्यं सोऽयमित्यभिधायासंबन्धादभेदोपचारेणाविचलितस्वरूपमेव181 प्रधानं विशिषत् कथमिव स्वलिङ्गं जह्यात्, आभ्यन्तरं तु विशेषापरिग्रहादाविष्टलिङ्गसंख्यं कथमिवान्यलिङ्गं गृह्णीयात् । बाह्याभ्यन्तरं तु गुणत्वात् खलिङ्गविरहे ‘गुणवचनानामाश्रयतो गुणवचनानि’ इति विशेष्यलिङ्गग्राह्येव182 भवति ॥

  1. ‘वारादीनाम्’ ख. घ
  2. ‘बाह्याभ्यन्तररूपम्’ ग घ
  3. ‘च प्रधानं विशिंषत् घ
  4. ‘विशेष्यलिङ्गग्राह्यमेव’ ख