तेषु क्रियावाचिना आदिदीपकं यथा—
अत्र ‘चरन्ति’ इति क्रियया द्वयोरपि वाक्ययोरादिपस्थयैवोपकारः क्रियत इत्यादिदीपकमिदं क्रियाविषयमुच्यते । एवं मध्यान्तयोरपि द्रष्टव्यम् ॥
चरन्तीत्यादि । तव दन्तिनो हस्तिनश्चतुःसमुद्रकूलवनेषु चरन्ति । कुन्दपुष्पदीप्तयो निर्मलास्तव गुणाश्च चक्रवालस्य लोकालोकस्याद्रेः कुञ्जेषु चरन्ति गच्छन्ति । अत्र क्रियावाचिना चरन्तीति पदेनादिस्थेन वाक्यद्वयं दीपितम् । मध्यास्थितेन वा क्रियापदेन यत्र वाक्यदीपनं तदपि मध्यदीपकमन्तदीपकं चेति मन्तव्यमित्याह—एवमिति ॥
जातिवाचिना आदिदीपकं यथा—
अत्र ‘पवनः’ इत्यादिपादे जातिपदं तेनादिदीपकमिदं जातिविषयमुच्यते । एवं मध्यान्तयोरपि द्रष्टव्यम् ॥
पवन इत्यादि । दक्षिणः पवनो मलयानिलो वीरुधां लतानां जीर्णं पक्वं पर्णं पत्रं हरति । स एव पवनो नागरीणां मानभङ्गाय कल्पते शक्तो भवति । अत्र पवनपदस्य सामान्यत एवोभयत्रान्वयाज्जातिवाचकत्वमादिस्थत्वं च । एवं चेत्ययं समुदायोऽत्यन्तमभेदमाह । मध्यान्तस्थयोरपि जातिवाचिनोर्दीपकं तत्तन्नाम्ना ज्ञेयमित्याह—एवमिति ॥
गुणवाचिना आदिदीपकं यथा—
अत्र ‘श्यामलाः’ इत्यादिपादे गुणपदं तेनादिदीपकमिदं गुणविषयमुच्यते । एवं मध्यान्तयोरपि द्रष्टव्यम् ॥