णवेत्यादि । “नवपल्लवेषु लोलति घूर्णते विटपेषु चलति शिखरेषु । स्थापयति स्तबकेषु चरणौ वसन्तलक्ष्मीरशोकस्य ॥” इहाशोकस्य नवपल्लवेषु वसन्तलक्ष्मीर्लोलति लुठति । तस्य विटपेषु शाखासु घूर्णते, तस्य शिखरेष्वग्रेषु चलति गच्छति, तस्य स्तबकेषु पुष्पगुच्छेषु चरणौ स्थापयति । लोलतीति 529 ‘लोल202 चलने’ तौदादिकः । यद्वा लोकतीति क्विबन्तात्तिप् । अत्र पदद्वयं द्रव्यवाचकं संपुटक्रमेण मिथः संबध्यमानं मिथः संबद्धान्येव पदानि दीपयतीति संपुटम् ॥

  1. नैष धातुः क्वापि धातुपाठे वर्तंते । ‘लुड विलोडने’ इति, ‘लोड उन्मादे’ इति च भौवादिकौ । उभयोरपि लोडतीति । डलयोरभेदाल्लोलतीति च