529 ‘लोल202 चलने’ तौदादिकः । यद्वा लोकतीति क्विबन्तात्तिप् । अत्र पदद्वयं द्रव्यवाचकं संपुटक्रमेण मिथः संबध्यमानं मिथः संबद्धान्येव पदानि दीपयतीति संपुटम् ॥

रसना यथा—

‘सलिलं विकाशिकमलं कमलानि सुगन्धिमधुसमृद्धानि ।
मधु 203लीनालिकुलाकुलमलिकुलमपि च मधुरणितमिह ॥ २०४ ॥’

अत्र रसनाक्रमेण मिथः संग्रथितानि ‘सलिलं विकाशिकमलम्’ इत्यादीनि वाक्यानि ‘इह’ इत्यन्तस्थितेनाधिकरणवाचिना द्रव्यदीपकेन दीप्यन्ते; तदेतत् रसनादीपकं नामादिदीपकभेदः ॥

सलिलमित्यादि । जलं प्रफुल्लपद्मम, पद्मानि सुगन्धमधुना समृद्धानि । लीनं यदलिकुलं तेनाकुलं मधु, भ्रमरकुलमपीह वसन्ते मधुरणितं मधुना पुष्परसेन शब्दितं मधौ मधूकद्रुमे वा शब्दितम् । ‘मधु पुष्परसक्षौद्रमद्ये ना तु मधुद्रुमे’ इति मेदिनीकारः । अत्र क्षुद्रघण्टिकाक्रमेण संग्रथितानि सलिलादिपदान्यन्तःस्थिताधिकरणरूपद्रव्यवाचकेनेहेति पदेन दीप्यन्ते ॥

माला यथा—

‘इमिणा सरएण ससी ससिणा वि णिसा णिसाइ204 कुमुअवणम् ।
कुमुअवणेण अ पुलिणं 205पुलिणेण अ सोहए हंसउलम् ॥ २०५ ॥’
[अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम् ।
कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम् ॥]

अत्र मालाक्रमेण परस्परग्रथिताः कर्तारो हेतवश्च शशिप्रभृतयः ‘शोभते’ इति क्रियया दीप्यन्ते; तदेतन्मालादीपकं नाम दीपकस्य भेदः ॥

कः पुनरस्य पूर्वस्माद्विशेषः । पूर्वत्र वृत्तिच्छिन्नं रसनायां सर्वत्र

  1. नैष धातुः क्वापि धातुपाठे वर्तंते । ‘लुड विलोडने’ इति, ‘लोड उन्मादे’ इति च भौवादिकौ । उभयोरपि लोडतीति । डलयोरभेदाल्लोलतीति च
  2. ‘लीलालिकुल’ ग घ
  3. ‘णिसाए’ ग
  4. अत्रैकमात्राया न्यूनत्वाच्छन्दोदोषः प्रतिभाति