533

पायादित्यादि । स देवो वो युष्मान् पायात् रक्षतात् । कीदृशः । रचिता त्रिविक्रमस्य वामनस्य तनुः शरीरं येन सः । दैत्यनाशकश्च । यस्वाकस्माद्वर्धमानशरीरस्य सूर्यमण्डलं मौलो रत्नरुचि जातम्, क्रमात् श्रुतौ कर्णे शोभमानताटङ्ककान्ति जातम्, वक्षसि कौस्तुभदीप्ति जातम्, उदरै नाभिपद्मोपमं जातम् । ‘कौस्तुभो मणिः’ इत्यमरः । इह हरेर्नाभिपद्मस्य श्वेततया रूपेण न साम्यं किं त्वाकारादिनेत्यवधेयम् । ‘वैकुण्ठो विष्टरश्रवाः’ इत्यमरः । अत्र मौलिप्रभृतिदेशपुरस्कारेणार्थक्रमः ॥

उभयपरिपाटी द्विधा—शब्दप्रधाना, अर्थप्रधाना च । तयोराद्या यथा—

‘पङ्कअ पङ्कि वहेलिअ कुवलअ खित्तउ दहहिं वालिहिं बिम्ब विविल्लिओ घत्तिओ चन्दु णहहि ।
करणअणाहरवअणहिं तहिं लीलावइहिं णिअसिट्टि वि उच्चिट्ठिणा इं पआवइहिं ॥ २११ ॥’
[पङ्कजं पङ्केऽवहेल्य कुवलयं क्षिप्त्वा हृदे वृन्ते बिम्बं विप्रकीर्णे निरस्तश्चन्द्रो नभसि ।
करनयनाधरवदनैस्तत्र लीलावत्यां निजसृष्टिरप्युत्सृष्टा किं प्रजापतिना ॥]

अत्र पङ्कजकुवलयबिम्बिफलचन्द्रमसां करनयनाघरवदनैर्यथासंख्यं पराजयत इति शब्दपरिपाठ्यैव पङ्कजानि पङ्के न्यस्तानि, कुवलयानि हृदे क्षिप्तानि, बिम्बं 220वृन्ते प्रकीर्णम्, चन्द्रो नभसि निरस्त इत्याधाराणामुपर्युपरिभावः, क्रियाणां च त्यागतारतम्यमित्यर्थपरिपाटी न्यग्भवति; सेयं शब्दप्रधानोभयपरिपाटी क्रमः ॥

पङ्क इत्यादि । “पङ्कजानि पङ्क न्यस्तानि कुवलयानि क्षिप्तानि ह्रदे कृत्तौ बिम्बं विनिकीर्णं निरस्तश्चन्द्रो नभसि । करनयनाधरवदनैस्तस्यां लीलावत्यां निजसृष्टिरप्युत्सृष्टेव प्रजापतिना ॥” इह प्रजापतिना ब्रह्माणा तस्यां लीलावत्यां नायि-

  1. ‘मुहपूरिअतिणवज्ज वाली’ इतिदेशीनाममालनुसारेण सच्छिन्द्रं तृण वृन्तमपि भवति । ‘वृत्तौ’ ग घ