मयेत्यादि। कयाचिन्नायिकया एवमनेन प्रकारेण मिषतो व्याजाद्विनिर्यये बहिर्भूतम् । तदेवाह—मया त्यक्ता वल्लकी वीणा बहिरेव गच्छेत् । अवश्यायकणैर्हिमलवैः सार्द्रतां च व्रजेत् । तत एनां शीघ्रं निचोलके वस्त्रेऽहं करवै करिष्यामि । 'अवश्यायस्तु नीहारः’ इत्यमरः । ‘निचोलः प्रच्छदपटः’ इति च । उदर्क उत्तरकालशुद्धिस्तदभिधानं मिषपर्यायः ॥