535 आ समन्तात् प्रश्नः संवादः । यथा आपृच्छस्वेत्यत्र । वतंसेन कर्णालंकारेण विपुलः स्थूलश्चांसो बाहुमूलं यत्र वक्षसि तत् । ‘वतंसः कर्णपूरे स्यात्’ इति विश्वः । अत्रादरवता वचनरचनेनाभ्यर्च्य प्रार्थनाभाङ्गिरर्थपरिपाटीकृता । तस्यां च गङ्गया हारस्य, यमुनयासिलतायाः, प्रयागेण वतंसविपुलस्थूलांसवक्षसः, न्यग्रोधेन भुजस्य शाब्देन क्रमेण मिथ उपमानोपमेयभावो न्यग्भूत इत्युभयक्रमेऽर्थप्रधानता ॥ इति क्रमालंकारनिरूपणम् ॥

पर्यायलंकारनिरूपणम् ।

पर्यायं लक्षयति—

मिषं यदुक्तिभङ्गिर्यावसरो यः स सूरिभिः ।
निराकाङ्क्षोऽथ साकाङ्क्षः पर्याय इति गीयते ॥ ८० ॥

मिषमिति । यन्मिषम्, योक्तिभङ्गिः, यश्चावसरः स पर्यायः । मिषाद्यन्यतम एव पर्याय इति लक्षणम् ॥

तेषु निराकाङ्क्षं मिषं यथा—

‘मया विमुक्ता बाहिरेव वल्लकी व्रजेदवश्यायकणैश्च सार्द्रताम् ।
द्रुतं तदेनां करवै निचोलके कयाचिदेवं मिषतो विनिर्यये २१३’

अत्र ‘कयाचिदेवं मिषतो विनिर्यये’ इत्युदर्काभिधानेनाकाङ्क्षा222निवृत्तेर्निराकाङ्क्षमेतन्मिषं नाम पर्यायभेदः ॥

मयेत्यादि। कयाचिन्नायिकया एवमनेन प्रकारेण मिषतो व्याजाद्विनिर्यये बहिर्भूतम् । तदेवाह—मया त्यक्ता वल्लकी वीणा बहिरेव गच्छेत् । अवश्यायकणैर्हिमलवैः सार्द्रतां च व्रजेत् । तत एनां शीघ्रं निचोलके वस्त्रेऽहं करवै करिष्यामि । 'अवश्यायस्तु नीहारः’ इत्यमरः । ‘निचोलः प्रच्छदपटः’ इति च । उदर्क उत्तरकालशुद्धिस्तदभिधानं मिषपर्यायः ॥

तदेव साकाङ्क्षं यथा—

‘दशत्यसौ परभृतः सहकारस्य मञ्जरीम् ।
तमहं वारयिष्यामि युवाभ्यां स्वैरमास्यताम् ॥ २१४ ॥’
  1. ‘निराकृतेर्निराकाङ्क्ष’ क ‘निराकृतेति’ ख