536

अत्र ‘कयाचिदेवं मिषतो विनिर्यये’ इतिवदुदर्कानभिधानात् साकाङ्क्षमेतन्मिषं नाम पर्यायस्य भेदः ॥

दशतीत्यादि । असौ परभृतः पिकः सहकारस्य भञ्जरी दशति तमहं वारयिष्यामि । ततो युवाभ्यां स्वैरं स्वच्छन्दमास्यतामुपविश्यताम् । ‘स्वच्छन्दमन्दयोः स्वैरम्’ इति विश्वः । अत्रोदर्कानभिधानात्साकाङ्क्षत्वम् ॥

निराकाङ्क्षोक्तिभङ्गिर्यथा—

‘राजन् राजसुता न पाठयति मं देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमार कुशलं223 नाद्याज्जुके भुज्यते ।
इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा- च्चित्रस्थानवलोक्य 224वेश्मवलभीष्वेकैकमाभाषते ॥ २१५ ॥’

अत्रानयोक्तिभङ्ग्या शून्यीकृतारिनगरस्य नरपतेः कश्चित् प्रतापं वर्णयति । तत्र वाक्यस्य परिपूर्णत्वेन निराकाङ्क्षत्वान्निराकाङ्क्षेयमुक्तिभङ्गिः ॥

राजन्नित्यादि । हे नाथ हे प्रभो, तबारिभवने शत्रुगृहे इत्थमनेनाकारेण वेश्मवलभीषु गृहोपरिकुटीषु चित्रलिखितानेतान्विलोक्य प्रत्येकं शुक आभाषते वदति । कीदृशः । अध्वगैः पथिकैः पञ्जरान्मुक्तस्त्यक्तः । आभाषणस्वरूपमाह—हे राजन्, राजसुता कुमारिका मां न पाठयति । देव्यो महादेव्योऽपि तूष्णीं स्थिताः कृतमौनाः । हे कुब्जे, मां भोज्य । हे कुमार राजबालक, तव कुशलम् । हे अज्जुके गणिके, अद्य मया न भुज्यते । ‘देवी कृताभिषेकायाम्’ इत्यमरः । बाहुल्येन कुब्जायाः शुकभोजनं नृपगृहे कर्म । ‘युवराजस्तु कुमारः’ इत्यमरः । ‘नाट्योक्तौ गणिकाज्जुका’ इति च । अत्र प्रतापवर्णने पूर्णवाक्यतया निराकाङ्क्षत्वम् । उक्तौ तु भङ्गर्व्वक्तैव ॥

साकाङ्क्ष यथा—

‘शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति षदशो नातिप्रसिद्धाक्षराम् ।
  1. ‘गम्यते’ ग
  2. ‘सचिवैर्नाद्यचापि कि भुज्यते’ इति, ‘शून्यूबलभावैकैकमाभावते’ इति च काव्यप्रकाशेऽप्रस्तुतप्रशंसायामुदाहृतेऽस्मिन्नेव श्लोके पाठभेदः