शान्त्या इत्यादि । जगतां पत्युर्हरस्य कपालदाम ललाटमाला वो युष्माकं शान्त्यै शमायास्तु । पञ्चवक्रतया कपालानां माला । यदीयां लिपिं यत्संबन्धिनीमक्षरालीं गणा नन्द्यादयः क्वापि पदशः पदक्रमेण पठन्ति वाचयन्ति । कीदृशीम् । नातिप्रसिद्धवर्णाम् । अत एव क्वाचित्कः पाठः । पाठविषयमाह—अयं शिवो विश्वं जगत् स्रक्ष्यति निर्मास्यति । क्षितिं भूमिं क्क्ष्यति धारयिष्यति । अपामीशिष्यते जलेष्वैश्वर्यं लप्स्यते । नागैः सर्पैरशिष्यते भोक्ष्यते । अयं रागिषु विषयासक्तेषु रंस्यते क्रीडिष्यति । जगदयमत्स्यसि भक्षिष्यति । द्यां स्वर्गं निर्वेक्ष्यत्युपभोक्ष्यति । इति । स्रक्ष्यतीति ‘सृज विसर्गे’ लृटू । ‘सृजिदृशोर्झल्यमकिति’ 538 ६।१। ५८’ इत्यम् । वक्ष्यतीति ‘वह प्रापणे’ लृट् । ‘षढोः कः सि ८।२।४१’ इति कत्वम् । ईशिष्यत इति ‘ईश ऐश्वर्ये’ लृट् । अशिष्यत इति ‘अश भोजने’ लृटि कर्मणि । रंस्यत इति ‘रमु क्रीडायाम्’ लृट् । अत्स्यतीति ‘अद भक्षणे’ लृट् । निर्वेक्ष्यतीति निपूर्वात् विशेर्लृट् । अस्तसमये विनाशे । ब्रह्मणा करणेनेदृशी आकाङ्क्ष । चतुर्णां युगानामेकसहस्रेण ब्रह्मण एकं दिनम् । अनेनैव क्रमेणाहोरात्रादिकम् । ईदृश्याकाङ्क्षा । शतसंख्यब्रह्मापवर्गान्तरमेकं दिनं वैष्णवम् । अनेनैव क्रमेणाहोरात्रादिकम् । पुरुषायुषेति अचतुरादौ निपातितम् । अपामीशिष्यत इति वरुणादयो ज्ञेयाः । अत्र ब्रह्मादीनां साक्षादभिधानाभावात् साकाङ्क्षता ॥