538 ६।१। ५८’ इत्यम् । वक्ष्यतीति ‘वह प्रापणे’ लृट् । ‘षढोः कः सि ८।२।४१’ इति कत्वम् । ईशिष्यत इति ‘ईश ऐश्वर्ये’ लृट् । अशिष्यत इति ‘अश भोजने’ लृटि कर्मणि । रंस्यत इति ‘रमु क्रीडायाम्’ लृट् । अत्स्यतीति ‘अद भक्षणे’ लृट् । निर्वेक्ष्यतीति निपूर्वात् विशेर्लृट् । अस्तसमये विनाशे । ब्रह्मणा करणेनेदृशी आकाङ्क्ष । चतुर्णां युगानामेकसहस्रेण ब्रह्मण एकं दिनम् । अनेनैव क्रमेणाहोरात्रादिकम् । ईदृश्याकाङ्क्षा । शतसंख्यब्रह्मापवर्गान्तरमेकं दिनं वैष्णवम् । अनेनैव क्रमेणाहोरात्रादिकम् । पुरुषायुषेति अचतुरादौ निपातितम् । अपामीशिष्यत इति वरुणादयो ज्ञेयाः । अत्र ब्रह्मादीनां साक्षादभिधानाभावात् साकाङ्क्षता ॥

अवसरो निराकाङ्क्षो यथा—

‘अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः229 ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ २१७ ॥’

अथेत्यादि । अनन्तरं मधुर्वसन्तोऽग्रे आत्मानमदर्शयत् दर्शितवान् । किं कर्तुम् । आतुरां विह्वलां रतिं कामवधूमभ्युपपत्तुं बोधयितुम् । कीदृशः । तैः परिदेविताक्षरैर्विलापाक्षरैर्दिग्धर्विषाक्तशरैरिवार्दितः पीडितः । ‘विलापः परिदेवनम्’ इत्यमरः । ‘दिग्धो विषाक्तबाणे स्यात्पुंसि लिप्तेऽन्यलिङ्गकः’ इति मेदिनीकारः । नानार्थत्वादेव, नियमार्थं शरपदमिह । अत्र वसन्तविर्भावप्रस्तावो निरपेक्ष एवेति निराकाङ्क्षत्वम् ॥

अत्र

‘क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना गमितः सोऽपिसुहृद्गतां गतिम् ॥ २१८ ॥’

इति यानि रतेः परिदेविताक्षराणि तैराकृष्टहृदयस्य मधोर्योऽयमात्मदर्शनाय प्रस्तावः सोऽयं न किंचनाकाङ्क्षतीति निराकाङ्क्षोऽयमवसरः पर्यायस्य भेदः ॥

  1. ‘आदित’ इति कुमारसंभवटीकायां मल्लिनाथवृतः पाठः