539

साकाङ्क्षो यथा—

‘अज्जवि बालो दामोअरो त्ति इअ जम्पिए जसोआए ।
कह्णमुहपेसिअच्छं णिहुअं हसिअं वअवहूए230 ॥ २१९ ॥’
[अद्यापि बालो दामोदर इतीति जल्पिते यशोदया ।
कृष्णमुखप्रेषिताक्षं निभृतं हसितं व्रजवध्वा231 ॥]

अत्र ‘अद्यापि बालो दामोदरः’ इति यशोदया कृतप्रस्तावनस्य कृष्णस्य वक्रे विन्यस्तलोचनया तद्रहस्यवेदिन्या व्रजवधूमतल्लिकया यदेतन्निभृतं हसितं तत् तवाम्बा 232बालं त्वां ब्रूते, त्वं तु मादृशीभिर्निधुवनविदग्धाभिर्दिवानिशं यमुनानिकुञ्जोदरेषु विहरसीत्यादिनार्थजातेन साकाङ्क्षमिति साकाङ्क्षोऽयमवसरः पर्यायस्य भेदः ॥

अज्जवि इत्यादि । “अद्यापि बालो दामोदक इतीति जल्पिते यशोदया । कृष्णमुखप्रेषिताक्षं निभृतं हसितं व्रजवध्वा ॥” यशोदया कृष्णबाल्य उद्भाविते व्रजवधूः स्मेरं दृष्ट्वा काचित् कस्यैचित् कथयति—अद्यापीति । यशोदयाद्यापि दामोदरो बाल एवेत्युक्ते कयाचिद्नोपवध्वा कृष्णमुखे प्रेषितं न्यस्तमक्षि यत्र हसिते एवं निभृतमेकान्ते हसितम् । रहो रहस्यमेकान्तचेष्टा । मतल्लिका प्रशस्ता । ‘मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि’ इत्यमरः । निधुवनं सुरतम् । ‘निधुवनमायोजनमाहुः’ इति हारावली । अत्रानेकेनार्थजातेव साकाङ्क्षता व्यक्तैव ॥ इति पर्यायालंकारनिरूपणम् ॥

अतिशयोक्त्यलंकारः ।

अतिशयलक्षणमाह—

विवक्षया विशेषस्य लोकसीमातिवर्तिनी ।
असावतिशयोक्तिः स्यादलंकारोत्तमा च सा ॥ ८१ ॥
सा च प्रायो गुणानां च क्रियाणां चोपकल्पते233 ।
नहि द्रव्यस्य जातेर्वा भवत्यतिशयः कचित् ॥ ८२ ॥
  1. गाथासप्तशत्यां तु ‘वअवहूहिं’ इथि पाठः, ‘व्रजवधूभिः’ इति छाया च
  2. गाथासप्तशत्यां तु ‘वअवहूहिं’ इथि पाठः, ‘व्रजवधूभिः’ इति छाया च
  3. ‘बालत्वम्’ ग
  4. ‘चोपकल्पते’ क ख