540
प्रभावातिशयो यश्च यश्चानुभवनात्मकः ।
अन्योन्यातिशयो यश्च तेऽपि नातिशयात्पृथक् ॥ ८३ ॥
अलंकारान्तराणामप्येकमाहुः परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्व याम् ॥ ८४ ॥

विवक्षेति । विशेषस्य प्रकर्षस्य लोकसीमातिवर्तिनी लोकमर्यादातिशयिता या विवक्षा वक्तुमिच्छा सातिशयोक्तिः । केवलस्य, अखण्डाया जातेश्चातिशयाभावाद्गुणक्रिययोरेवातिशय इत्याह—सा चेति । उपकल्प्यते समर्थ्यते ॥ अलमिति । न केवलं प्रभावादीनामेवातिशयोक्तिरपि त्वलंकाराणामपीमामतिशयामिधानामुक्तिमेकं परायणमाश्रये वदन्ति । कीदृशीम् । वागीशेन वाक्पतिना महितां पूजिताम् । ‘परायणमाश्रये’ इति विश्वः ॥

तत्र गुणातिशयेन महत्त्वातिशयो यथा—

‘अहो विशालं भूपाल भुवनत्रितयोदरम् ।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ २२० ॥’

अत्रैवं यशोराशोरशक्यमानस्याप्यतिशयोक्त्य विशेषविवक्षा । येन त्रिभुवनोदरमपि संकीर्णमाशङ्क्यते; सोऽयं महत्त्वातिशयो नामातिशयभेदः ॥

अहो इत्यादि । हे भूपाल, यस्मादत्र भुवनत्रितयोदरे मातुं परिच्छेत्तुमशक्योऽपि तव यशोराशिर्माति संमाति । तस्माद्भुवनत्रितयोदरं विशालमत्राहो आश्चर्यम् । अत्र यशोराशिरूपस्य गुणस्यातिशयेन महत्त्वातिशयः स्फुट एव ॥

तनुत्वातिशयो यथा—

‘स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव ।
अस्ति नास्तीति संदेहो न मेऽद्यापि निवर्तते ॥ २२१ ॥’

अत्रैवं मध्यस्य लोकसीमतिक्रमेण तानवातिशयविवक्षा येन तदस्ति नास्तीति वा संदिह्यते; सोऽयं तनुत्वातिशयो नामातिशयभेदः ॥