541

स्तनयोरित्यादि । हे प्रिये, तव स्तनयोर्जघनस्यापि मध्येऽन्तराले मध्यमवलग्नमतिकृशत्वादस्ति नास्तीति संदेहो ममाद्यापि न निवर्तते । अत्र तानवस्य तनुत्वस्यातिशयः । लोकेति । नहि लोकः पयोधरभरस्थित्यन्यथानुपपत्त्यापि मध्यं निश्चिनोतीत्यर्थः ॥

कान्त्यतिशयो यथा—

‘मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः ।
क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ २२२ ॥’

अत्रैवं चन्द्रालोकस्य लोकसीमातिक्रमेण बाहुल्योत्कर्षविवक्षा । येन तस्मिन् समानाभिहारेणाभिसारिका अपि न लक्ष्यन्ते सोऽयं कान्त्यतिशयो नामातिशयभेदः ॥ अथास्य पिहितात्को विशेषः । उच्यते । पिहिते चन्द्रातपस्योत्कर्षेणाभिसारिकातिरस्कारो विवक्ष्यते, इह त्वभिसारिकातिरस्कारेण चन्द्रातपोत्कर्ष इति ॥

मल्लिकेत्यादि । ईदृश्योऽभिसारिका ज्योत्स्नायां चन्द्रकिरणेऽपि न लक्ष्यन्ते न ज्ञायन्ते केनापि । कीदृश्यः । मल्लिका मालती तस्या मालां बिभ्रति । 234‘मालेषीकाष्टकानां भारतूलहि(चि)तेषु’ इति ह्रस्वः । सर्वाङ्गीणं सर्वाङ्गव्यापकमार्द्रं चन्दनं यासां ताः । क्षौमवत्यो दुकूलयुक्ताश्च । क्षौम इति ‘टुक्षु शब्दे’ इति मनिन् । क्षुमा प्रज्ञादित्वात् स्वार्थेऽण् वृद्धिश्च । अत एव ‘क्षुमवत्’ इत्यपि पाठः । अत्र चन्द्रकान्तेरतिशयः स्फुट एव । ‘अभिहारोऽभियोगः स्यात्’ इति मेदिनीकारः । लोकसीमातिक्रमश्च नहि शुक्लाम्बरतया ज्योत्स्नायामभिसारिका न लक्ष्यन्त इति लोकसीमेत्यर्थः । उत्कर्षरूपस्यार्थस्योभयत्र विवक्षणात् पिहितकान्त्यतिशययोरभेदः । किमिति पृच्छति—अथेति । उत्तरम् । पिहित इति । चन्द्रातपोत्कर्षतया तौल्येऽपि पिहिते तेनाभिसारिकातिरस्कार इह तु तस्यास्तिरस्कारेण चन्द्रातपोत्कर्ष इति प्रकाराभ्यां तयोर्भेद इत्याशयः ॥

प्रभावातिशयो यथा—

‘तं दइआहिण्णाणं235 जम्मि वि अङ्गम्मि राहवेण ण णिमिअम् ।
सीआपरिमट्टेण व ऊढो तेण वि णिरन्तरं रोमञ्चो ॥ २२३ ॥’
  1. ‘इष्टकेषीकामालानां चिततूलभारिषु ६।३।६५’ इति भाव्यम्
  2. ‘भिण्णाणं’ ग