अत्र दयिताभिज्ञानस्य योऽयं रोमाञ्चक्रियाविशेषः स क्रियातिशयस्यैव भेदः प्रभावातिशय उच्यते ॥
तमित्यादि । ‘तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न निर्भितम् । सीता परिस्पृष्टेनेव व्यूढस्तेनापि निरन्तरं रोमाञ्चः ॥” इह तद्दयिताया वल्लभायाः सीताया अभिज्ञानं चिह्नं मणिरूपं यस्मिन्नप्यङ्गे रामेण न निर्मितं न निहितं तेनाप्यङ्गेन सीतया परि सर्वतोभावेन स्पृष्टेनेव निरन्तरं यथा भवत्येवं रोमाञ्चो व्यूढो धृतः । ‘अभिज्ञानं भवेच्चिह्ने’ इति शाश्वतः । अत्र रोमाञ्चहेतुक्रियातिशयेन प्रभावातिशय एव विवक्षितः ॥
अनुभावातिशयो यथा—
अत्र रसातलमपि मृद्नता शेषेणापि च तस्य मूलं न दृष्टम्, त्रिभुवनमप्युल्लङ्घयता हरिणापि न तुङ्गशिखराणि प्राप्तानीति यदेतल्लोकसीमातिक्रमेण विशेषव्यवस्थया पर्वतानुभावभणनं सोऽयमनुभूयमानमाहात्म्यातिशयस्यैव भेदोऽनुभावातिशय उच्यते ॥
विमलिअ इत्यादि । ‘'विमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम् । अप्राप्ततुङ्गशिखरं त्रिभुवनहरणप्रवर्धितेनापि हरिणा ॥” इह सुवेलं कीदृशम् । विषपरपतिना शेषेणादृष्टो मूलस्य छेदः शेषो यस्य तम् । कीदृशेन । विमर्दितं