542
[तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न न्यस्तम् ।
सीतापरिमृष्टेनेवोढस्तेनापि236 निरन्तरं रोमाञ्चः ॥]

अत्र दयिताभिज्ञानस्य योऽयं रोमाञ्चक्रियाविशेषः स क्रियातिशयस्यैव भेदः प्रभावातिशय उच्यते ॥

तमित्यादि । ‘तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न निर्भितम् । सीता परिस्पृष्टेनेव व्यूढस्तेनापि निरन्तरं रोमाञ्चः ॥” इह तद्दयिताया वल्लभायाः सीताया अभिज्ञानं चिह्नं मणिरूपं यस्मिन्नप्यङ्गे रामेण न निर्मितं न निहितं तेनाप्यङ्गेन सीतया परि सर्वतोभावेन स्पृष्टेनेव निरन्तरं यथा भवत्येवं रोमाञ्चो व्यूढो धृतः । ‘अभिज्ञानं भवेच्चिह्ने’ इति शाश्वतः । अत्र रोमाञ्चहेतुक्रियातिशयेन प्रभावातिशय एव विवक्षितः ॥

अनुभावातिशयो यथा—

‘विमलिअरसाअलेण वि विसहरवइणा अदिट्ठमूलच्छेअम् ।
अप्पत्ततुङ्गसिहरं तिहुअणहरणे पवढ्ढिएण237 वि हरिणा ॥ २२४ ॥’
[विमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम् ।
अप्राप्ततुङ्गशिखरं त्रिभुवनहरणे 238प्रवर्धितेनापि हरिणा ॥]

अत्र रसातलमपि मृद्नता शेषेणापि च तस्य मूलं न दृष्टम्, त्रिभुवनमप्युल्लङ्घयता हरिणापि न तुङ्गशिखराणि प्राप्तानीति यदेतल्लोकसीमातिक्रमेण विशेषव्यवस्थया पर्वतानुभावभणनं सोऽयमनुभूयमानमाहात्म्यातिशयस्यैव भेदोऽनुभावातिशय उच्यते ॥

विमलिअ इत्यादि । ‘'विमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम् । अप्राप्ततुङ्गशिखरं त्रिभुवनहरणप्रवर्धितेनापि हरिणा ॥” इह सुवेलं कीदृशम् । विषपरपतिना शेषेणादृष्टो मूलस्य छेदः शेषो यस्य तम् । कीदृशेन । विमर्दितं

  1. ‘सेतुबन्धे’ तु ‘वूढो’ इति पाठः, ‘व्यूढः’ (विशेषेणोढः) इति छाया च
  2. सेतुबन्धे ‘तिहुअणहरणपरिवढ्ढिएण’ इति पाठभेदः ‘त्रिभुवनहरणपरिवर्धितेन’ इति छायाभेदश्च
  3. सेतुबन्धे ‘तिहुअणहरणपरिवढ्ढिएण’ इति पाठभेदः ‘त्रिभुवनहरणपरिवर्धितेन’ इति छायाभेदश्च