543 विमलितं निर्मलीकृतं वा रसातलं येन तेन । पुनः कीदृशम् । हरिणा त्रिविक्रमेणाप्यप्राप्ततुङ्गशिखरम् । कीदृशेन । त्रिभुवनहरणाय सर्वतो भावाद्वर्धितेन वृद्धिं गतेन । मृद्नता मर्दयता । अत्र पर्वतानुभावातिशयविवक्षयातिशयः स च तैरनुभूयमान एव ॥

‘रणदुज्जओ दहमुहो सुरा अवज्झा अ तिहुअणस्स इमे ।
पडइ अणत्थोत्ति फुडं विहीसणेन फुडिआहरं णीससिअम् २२५’
[रणदुर्जयो दशमुखः सुरा अवध्याश्च त्रिभुवनस्येमे ।
पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम् ॥

अत्र दशास्यः समरे न जीयते, सुराश्चामरत्वान्न वध्यन्ते, तयोश्च परस्परं संघट्टक्रियातिशयात्त्रिभुवनमपि क्षयं यास्यतीति येयमन्योन्यक्रियातिशयभणनाल्लोकसीमातिक्रमेण विशेषविवक्षा सोऽयं क्रियातिशयो नामातिशय एवान्योन्यातिशय उच्यते ॥

रणेत्यादि । “रणदुर्जयो दशमुखः सुरा अवध्या अहो त्रिभुवनस्यासौ । पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम् ॥” इह स्फुटिताधरं व्यक्तीकृताधरं यथा स्यादेवं विभीषणेन रावणभ्रात्रा निश्वसितं निश्वासस्त्यक्तः स्फुटं व्यक्तमेव । कुतः । दशास्यो रणे दुर्जयः, सुरा देवा अमरत्वादवध्याः । अहो आश्चर्यमसौ त्रिभुवनस्यानर्थः पततीति । इतिर्हेतौ । अत्र दशास्यसुरयोरन्योन्यक्रियातिशयोक्तेरन्योन्यातिशयः । सकलभुवनक्षयकारितया लोकसीमातिपातः ॥ इत्यतिशयोक्त्यलंकारनिरूपणम् ॥

श्लेषालंकारनिरूपणम् ।

श्लेषं लक्षयति—

श्लेषोऽनेकार्थकथनं पदेनैकेन कथ्यते ।
पदक्रियाकारकैः स्याद्भिन्नाभिन्नैः स षड्विधः ॥ ८५ ॥

श्लेष इति । एकेन पदेन विभक्त्यन्तेनानेकेषामर्थानां कथनं यत्र स श्लेषः कथ्यते । एकरूपान्वितमनेकार्थं वचः श्लेष इति लक्षणम् । स च षड्विधः पदादिभिः स्यात् ॥