544

तेषु भिन्नपदो यथा—

‘दोषाकरेण 239संबध्नन्नक्षत्रपथवर्तिना ।
राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते ॥ २२६ ॥’

अत्र ‘प्रदोषो रात्रेः प्रथमयामः किमिति प्रियारहितं मां न बाधते’ इत्युक्तेर्युक्तिमाह—इत्थमनुभूयमानेन प्रकारेण । राज्ञा संबध्नन् । कीदृशेन । दोषाकरेण नक्षत्रपथवर्तिनेति । यो हि दोषाणामाकरेण राजमार्गातिगामिना च राज्ञा प्रकृष्टदोषः संबध्यते सोऽप्रियमवश्यं240 बाधत एव; तदत्र पूर्वस्मिन्प्राकरणिकेऽर्थे द्वितीयोऽर्थोऽप्राकरणिकः पदभेदेनोपश्लिष्यमाणो भिन्नपदश्लेषापदेशमासादयति ॥

दोषेत्यादि । प्रकृष्टो दोषो दूषणं यस्य स दुर्जनो मां किं न बाधते, किंतु बाधत एव । मां कीदृशम् । अप्रियं तस्य द्वेष्यम् । कीदृशः । इत्थमनुभूयमानेन प्रकारेण राज्ञा भूपेन सह संबध्नन् युञ्जन् । आत्मानमित्यध्याहार्यम् । अत्र कर्मवद्भावो न कृतः संबध्यमान इत्यर्थत्वात् । राज्ञा कीदृशेन । दोषाणां दूषणानामाकरेण स्थानेन । क्षत्रपथः क्षत्रियमार्गस्तत्र वर्तितुं शीलं यस्य तेन । पश्चान्नकारसंबन्धः । क्षत्रियधर्मशून्येनेत्यर्थः । पक्षे प्रदोषो रजनीमुखं मामप्रियं प्रियारहितं किं न बाधते किंतु बाधत एव । कीदृशः । राज्ञा चन्द्रेणेत्थं संबध्यमानः । कीदृशेन । दोषाकरेण रात्रिकरेण । नक्षत्रपथं व्योम तदवस्थितिशीलेन च । अत्र राजपदमभिन्नम् । शेषपदानां भेदाद्भिन्नपदश्लेषः ॥

अभिन्नपदो यथा—

‘असावुदयमारूढः कान्तिमान् रक्तमण्डलः ।
राजा हरति लोकस्य241 हृदयं मृदुभिः करैः ॥ २२७ ॥’

अत्रायमुदीयमानश्चन्द्रमा लोकस्य हृदयं हरतीत्युक्तेर्युक्तिमाह—राजानुरक्तमण्डल उदयी मृदुकरः कान्तिमानिति । यो ह्येवंभूतो राजा

  1. ‘राजमार्गाभिगामिना’ घ
  2. ‘सोऽपि प्रियम्’ ग
  3. ‘सर्वस्य’ ग