अत्रायमुदीयमानश्चन्द्रमा लोकस्य हृदयं हरतीत्युक्तेर्युक्तिमाह—राजानुरक्तमण्डल उदयी मृदुकरः कान्तिमानिति । यो ह्येवंभूतो राजा 545 सोऽवश्यं लोकस्य हृदयहारी भवति । अत्रापि च प्राकरणिकेऽर्थेऽप्राकरणिक उपश्लिष्यमाणः पदानामभेदेनाभिन्नपदश्लेषो भवति ॥