असावित्यादि । असौ राजा नृपो मृदुभिरपीडाकरैः करै राजग्राह्यैर्लोकस्य हृदयं हरति । कीदृशः । उदयं वृद्धिमारूढः प्राप्तः । कान्तिमान् शोभायुक्तः । रक्तमनुरक्तं मण्डलं देशो यस्य सः । पक्षे असौ राजा चन्द्रः करैः किरणैर्मृदुभिः शीतलैर्जनस्य हृदयं हरति गृह्णाति । कीदृशः । उदयमुदयाद्रिमुपगतः । कान्तिमान् दीप्तियुक्तो रक्तमण्डलो लोहितबिम्बश्च । ‘उदयो वृद्धावुदयपर्वते’ इति विश्वः । 'मण्डलं बिम्बदेशयोः’ इति च । अत्र राजादिपदानामभेदेनाभिन्नपदश्लेषत्वम् ॥