545 सोऽवश्यं लोकस्य हृदयहारी भवति । अत्रापि च प्राकरणिकेऽर्थेऽप्राकरणिक उपश्लिष्यमाणः पदानामभेदेनाभिन्नपदश्लेषो भवति ॥

असावित्यादि । असौ राजा नृपो मृदुभिरपीडाकरैः करै राजग्राह्यैर्लोकस्य हृदयं हरति । कीदृशः । उदयं वृद्धिमारूढः प्राप्तः । कान्तिमान् शोभायुक्तः । रक्तमनुरक्तं मण्डलं देशो यस्य सः । पक्षे असौ राजा चन्द्रः करैः किरणैर्मृदुभिः शीतलैर्जनस्य हृदयं हरति गृह्णाति । कीदृशः । उदयमुदयाद्रिमुपगतः । कान्तिमान् दीप्तियुक्तो रक्तमण्डलो लोहितबिम्बश्च । ‘उदयो वृद्धावुदयपर्वते’ इति विश्वः । 'मण्डलं बिम्बदेशयोः’ इति च । अत्र राजादिपदानामभेदेनाभिन्नपदश्लेषत्वम् ॥

भिन्नक्रियो यथा—

‘मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः ।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः ॥ २२८ ॥’

अत्र ‘आकर्ण्यन्ते, श्लिष्यन्ते च’ इति क्रियापदद्वितयस्य प्राधान्यतः समुच्चयेनोपात्तस्य ‘मधुरा—’ इत्यादिभिः श्लिष्टपदैः ‘कोकिलागिरः', ‘असितेक्षणाः’ इति वा विशेष्यैकपदवर्जं पर्यायतः संबन्धो भवति । तद्यथा—आकर्ण्यन्ते । काः । कोकिलागिरः । कीदृश्यः । मधुराः, रागवर्धिन्यः, कोमलाः । पुनरपि किंभूताः । आसिते उपवेशिते निश्चलीकृते अन्तःप्रमोदानुभावादीक्षणे याभिस्तास्तथा । सर्वोऽपि हि मधुरं शब्दमाकर्णयन् निश्चलाक्षो भवति । श्लिष्यन्ते च । काः । असितेक्षणाः हरिणचक्षुषः । किंभूताः । मदकलाः, कोकिलागिरः, कोमलाः, रागवर्धिन्यः, मधुरा इति । सोऽयं द्वयोर्विभिन्नक्रिययोर्भिन्नार्थे242 च रूपिणां पदार्थानामुपश्लेषो भिन्नक्रियः श्लेष उच्यते ॥

मधुरा इत्यादि । कोकिलागिर आकर्ण्यन्ते, असितेक्षणाः श्यामनेत्राः प्रियानाश्लिष्यन्ते च । कीदृश्यः । मधुराः श्रुतिसुखा रम्याश्च । रागवर्धिन्योऽनुरागजनिका रतिजनिकाश्च । कोमला मनोज्ञा मृद्वङ्ग्यश्च । मदकला यौवनवसन्तादिकृत-

  1. ‘भिन्नार्थैकरूपाणाम्’ ख