मधुरा इत्यादि । कोकिलागिर आकर्ण्यन्ते, असितेक्षणाः श्यामनेत्राः प्रियानाश्लिष्यन्ते च । कीदृश्यः । मधुराः श्रुतिसुखा रम्याश्च । रागवर्धिन्योऽनुरागजनिका रतिजनिकाश्च । कोमला मनोज्ञा मृद्वङ्ग्यश्च । मदकला यौवनवसन्तादिकृत-546 मदमधुराः । मदेन मद्यविकारेण कलध्वनियुक्ताश्च । आसिते उपवेशिते निश्चलीकृतेऽन्तःप्रमोदानुभवादीक्षणे याभिस्तासां मधुरं रवमाकर्णयन्निश्चलाक्षो भवति । पक्षेऽसितेक्षणाः । कीदृश्यः । कोकिलानामिव गिरो यासां ताः । अत्र क्रियाभेदाद्भिन्नक्रियत्वमितरपदानामभिन्नानामेवार्थद्वयबोधकता ॥