546 मदमधुराः । मदेन मद्यविकारेण कलध्वनियुक्ताश्च । आसिते उपवेशिते निश्चलीकृतेऽन्तःप्रमोदानुभवादीक्षणे याभिस्तासां मधुरं रवमाकर्णयन्निश्चलाक्षो भवति । पक्षेऽसितेक्षणाः । कीदृश्यः । कोकिलानामिव गिरो यासां ताः । अत्र क्रियाभेदाद्भिन्नक्रियत्वमितरपदानामभिन्नानामेवार्थद्वयबोधकता ॥

243अभिन्नक्रियो यथा—

‘स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम् ।
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥ २२९ ॥’

अत्र ‘कर्षन्ति’ इत्येतस्यां क्रियायां दृशां दूतीनां च श्लिष्टपदत्वेनावेशादयमभिन्नक्रियो नाम श्लेषविशेषः । प्रथमयोरस्य वा को विशेष इति चेत् । तत्रैकस्यैव प्राकरणिकत्वम् अत्र तु द्वयोरपीति । अयं च भिन्नकारकोऽपि भवति ॥

स्वभावेत्यादि । कान्ताभिः प्रेषिता दृशो दूत्यश्च प्रियान् वल्लभान् कर्षन्ति । कीदृश्यः । स्वभावेन सहजेन मधुरा ललिताः । तदुक्तं मत्संगीतसर्वस्वे—'मधुरा कुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता । समन्मथविकारा च दृष्टिः सा ललिता मता ॥’ इति । स्निग्धाः स्नेहवत्यः । उल्बणमधिकं रागं लौहित्यं शंसन्त्यः । पक्षे सहजमधुराः । यद्वा स्वभावात्प्रियवादिन्यः स्निग्धा आत्मीयाः । अधिकं रागं मद्यविकारकृतं शंसन्त्यः । यद्वा रागमनुरागं कथयन्त्यः । अत्र प्रियाकर्षणरूपैकैव क्रिया साधारणीत्येकक्रियात्वम् । भिन्नपदाभिन्नपदाभ्यामस्य च को भेद इति पृच्छति—प्रथमयोरिति । वाशब्दश्चार्थे । उत्तरम्—तत्रेति । तयोरेकैकस्यैव प्रकरणापन्नत्वमत्र तु दृष्टं द्व्योरपि प्राकरणिकत्वमिति भेद इत्यर्थः । अनेककर्तृकत्वेनायं भिन्नकारकोदाहरणमपीत्याह—अयमिति ॥

भिन्नकारको यथा—

‘गतिर्वेणी च नागेन वपुरूरू च रम्भया ।
ओष्ठौ पाणी प्रवालैश्च तस्यास्तुल्यत्वमाययुः ॥ २३० ॥

अत्रैकस्मिन् पक्षे धर्मधर्मिणोरभेदोपचारान्नागगतिर्गृह्यते । तत्र गते-

  1. ‘अभिन्नक्रिययोः’ ग