गतिरित्यादि । तस्या नायिकाया गतिर्गमनं वेणी केशरचना च नागेन हस्तिना सर्पेण च, तस्या वपुरूरुद्वयं च रम्भयाऽप्सरोभेदेन कदल्या च, तस्याः पाणी हस्तावोष्ठौ च प्रवालैर्विद्रुमैः पल्लवैश्च सर्वाणि तुल्यत्वमाययुः । ‘नागो हस्तिभुजङ्गयोः’ इति शाश्वतः । ‘कदल्यप्सरसो रम्भा’ इति च । ‘पल्लवे विद्रुमे चापि प्रवालः’ इति धरणिः । गतिनानात्वादाह—धर्मेति । अत्र नानाकर्तृकत्वादेव भिन्नकारकता ॥