547 र्वेण्याश्च नागेन हस्तिना अहिना च तुल्यत्वम्, वपुष ऊर्वोश्च रम्भया कदल्या अप्सरोभिश्च तुल्यत्वम्, ओष्ठयोः पाण्योश्च प्रवालैर्विद्रुमैर्नवपल्लवैश्च 244तुल्यत्वं वर्णनीययोः श्लेषप्रभावाल्लभ्यते; सोऽयमनेककर्तृकत्वाद्भिन्नकारक इति श्लेषो भवति ॥

गतिरित्यादि । तस्या नायिकाया गतिर्गमनं वेणी केशरचना च नागेन हस्तिना सर्पेण च, तस्या वपुरूरुद्वयं च रम्भयाऽप्सरोभेदेन कदल्या च, तस्याः पाणी हस्तावोष्ठौ च प्रवालैर्विद्रुमैः पल्लवैश्च सर्वाणि तुल्यत्वमाययुः । ‘नागो हस्तिभुजङ्गयोः’ इति शाश्वतः । ‘कदल्यप्सरसो रम्भा’ इति च । ‘पल्लवे विद्रुमे चापि प्रवालः’ इति धरणिः । गतिनानात्वादाह—धर्मेति । अत्र नानाकर्तृकत्वादेव भिन्नकारकता ॥

अभिन्नकारको यथा—

‘कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी ।
याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २३१ ॥’

अत्र ‘हे कलभाषिणि, कस्य ते दृष्टिर्विश्वास्या भवति’ इत्युक्तेर्युक्तिमाह—‘कृष्णार्जुनानुरक्तापि कर्णावलम्बिनी’ इति च । या हि कृष्णार्जुनेनानुरज्यते कथं सा कर्णपक्षपातिनी भवति, या चैवमुभयगता तस्यां को विश्वसिति; स चायमेककर्तृकत्वादभिन्नकारक इति श्लेषो भवति ॥

कृष्णेत्यादि । हे कलभाषिणि मधुरवचने, तव दृष्टिः कस्य विश्वसनीयत्वं विश्वासविषयतां याति किंतु न कस्यापि । अत्र हेतुः कृष्णा श्यामा, अर्जुना धवला, अनुरक्ता प्रान्तलोहिता च । प्रादेशिकोऽयं क्रमः । कर्णपर्यन्तगामिनी च । पक्षे कृष्णे हरौ, अर्जुने पार्थे चानुरक्तानुरागवती कर्णपक्षपातिनी च या सा विरुद्धोभयगता कथं विश्वसनीया भवति । ‘वलक्षो धवलोऽर्जुनः’ इत्यमरः । अत्र कर्तुरेकतयाभिन्नकारकता ॥ इति श्लेषालंकारनिरूपणम् ॥

भाविकालंकारनिरूपणम् ।

भावनालक्षणमाह—

स्वाभिप्रायस्य कथनं यदि वाप्यन्यभावना ।
अन्यापदेशो वा यस्तु त्रिविधं भाविकं विदुः ॥ ८६ ॥
  1. ‘तुल्यत्वम्’ क ख ग