548
मते चास्माकमुद्भेदो विद्यते नैव भाविकात् ।
व्यक्ताव्यक्तोभयाख्याभिस्त्रिविधः सोऽपि कथ्यते ॥ ८७ ॥

स्वेत्यादि । निजाशयकथनमन्यकथनमन्यापदेशश्च भाविकम् । भावे कवेरभिप्राये भवं भाविकमित्यन्वर्थनामतापि । उद्भेदभाविकयोरभेदमाह—मत इति । सोऽपि उद्भेदोऽपि ॥

तत्र भाविकभेदेषु स्वाभिप्रायकथनं यथा—

‘णावज्झइ दुग्गेज्झिआ दिट्ठम्मि जम्मि भिउडिआ जत्थ ण अव्वाहारओ घिप्पइ आहासत्तए ।
विच्छुहइ अहिणिंदए जत्थ ण सो वअंसिआ तं मे 245कहउ माणअं जइ मे इच्छहि 246जीअअम् ॥ २३२ ॥
[नाबध्यते दुर्गृहीता दृष्टे यस्मिन् भृकुटिका यत्र नाव्याहारो गृह्यते आभाषमाणे ।
विक्षुभ्यतेऽभिनिन्द्यते यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवनम् ॥]

अत्र 247भ्रूभेदासंभाषणप्रियतमावक्षेपान् प्रत्यनभिमतप्रतिपादनरूपस्याभिप्रायस्य कथितत्वादिदं स्वाभिप्रायकथनं नाम भाविकम् ॥

णावज्जइ इत्यादि । “नाबध्यते दुर्ग्राह्या दृष्टे यस्मिन् भ्रुकुटिका यत्र न च (चा) व्याहारो गृह्यते आभाषमाणे । विक्षुभ्यतेऽभिनीयमाने यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवितम् ॥” इह यस्मिन् दृष्टे दुर्ग्रहा भ्रुकुटिर्नाबध्यते समन्तान्न बध्यते यत्राभाषमाणेऽव्याहारो न च गृह्यते । यत्राभिनीयमाने वयस्यया स न क्षुभ्यते तं मानं मम कथय यदि मम जीवनमिच्छसि । अत्रानाकाङ्क्षितरूपस्याभिप्रायस्य कथनम् ॥

  1. ‘कहहु’ क ख ग
  2. ‘जीइअम्’ इति घ
  3. ‘भ्रूद्भेदा’ ख