550

उद्भेदेषु व्यक्तो यथा—

‘मंतेसि महुमहपणअं संदाणेसि तिअसेसपाअवरअणम् ।
ओजसु 250मुद्धसुहावं संभावेसु सुरणाह जाअवलोअम्251 ॥ २३५ ॥’
[मनुषे मधुमथप्रणयं संदानयसि त्रिदशेशपादपरत्नम् ।
अपजहि मुग्धस्वभावं संभावय सुरनाथ यादवलोकम् ॥]

अत्र मायाविनो महेन्द्रस्याभिप्रायः सत्यकेन व्यक्तमेवोद्भिन्न इति व्यक्तोऽयमुद्भेदः ॥

मन्तेसीत्यादि । “मनुषे मधुमथप्रणयं संदानयसि त्रिदशेश पादपरत्नम् । अपजहि मुग्धस्वभावं संभावय सुरनाथ यादवलोकम् ॥” इह हे सुरनाथ इन्द्र, यदि मधुमथस्य कृष्णस्य प्रणयं प्रीतिं मनुषे स्वीकरोषि । देवे पादपरत्नं पारिजातवृक्षं संददाने सति मुग्धं स्वभावं मौग्ध्यमपजहि त्यज । यादवलोकं संभावय प्रीणय । अत्रेन्द्राभिप्रायः सत्यकेन तत्सारथिना व्यक्तः प्रकाशितः ॥

अव्यक्तो यथा—

‘निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे252 वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ २३६ ॥’

अत्र ‘वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्’ इत्याक्षेपवता 253प्राकरणिकोदाहरणेन यद्यपि दूत्या दुश्चेष्टितं निर्भिन्नं तथापि न पूर्ववव्द्यक्तमित्यव्यक्तोऽयमुद्भेदः ॥

निःशेषेत्यादि । हे दूति, इतः स्थानात्त्वं वापीं पुष्करिणीं स्नातुं गतासि । तस्याधमस्यान्तिकं न गतासि । हे मिथ्यावादिनि, हे सुहृज्जनस्याज्ञातदुःखागमे । स्नानचिह्नान्याह—स्तनतटं निःशेषच्युतचन्दनमशेषक्षरितचन्दनमस्ति । तवाधरोऽपि त्यक्तलौहित्यः । तव नेत्रेऽत्यर्थमञ्जनशून्ये । तथा तवेयं तन्वी कृशा तनुः

  1. ‘सुद्ध’ इति पाठः.
  2. ‘जा अव’ ख ग
  3. ‘पीडागमा’ क. ख.
  4. ‘प्रकृतोदाहरणेन’ क ख