551 शरीरं पुलकिता रोमाञ्चवती च । अत्र स्नानसंभोगयोस्तुल्यचिह्नस्योपदर्शनेन प्रकरणपरिप्राप्तं दूतीदुश्चेष्टितमुद्भिन्नम्, न च प्राग्वव्द्यक्तता ॥
उभयरूपो यथा—
अत्र ‘दृशोर्म्लानता, गण्डयोः पाण्डुरत्वम्, श्वासानां दैर्ध्यम्’ इत्युत्कण्ठाचिह्ननिह्नवाय योऽयमविनयवत्या नीलाञ्जनादिप्रयोगस्तस्य 255तथाभ्युपगमेऽपि ‘अङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते’ इति योऽयं सखीव्याहारस्तेन तदभिप्राय उद्भिन्नोऽनुद्भिन्नश्च भवतीत्युभयरूपोऽयमुद्भेदः । तेऽमी त्रयोऽप्युद्भेदा भाविकान्न भिद्यन्ते ॥
अम्लानेत्यादि । किंतु हे सखि, तवाङ्गानाममुमुद्भटं क्रशिमानं कृशत्वं को न नामोत्प्रेक्षते किंतून्नयत एव । यद्यपि तव दृशावम्लाने म्लानिहीने उत्पन्ने इव कोमले मनोज्ञे स्तः । कीदृशे । नीलकज्जलेनाञ्चिते । यतः कर्पूरस्य छुरणात् संबन्धात् पाण्डिमा पाण्डुरत्वं गण्डफलके संवेल्लितः संबद्धः । श्वासाश्च कन्दुकक्रीडनार्थं या भ्रमिर्भ्रमणं तत्प्रभवाः सन्तु । अङ्गानां कीदृशानाम् । प्रभावाहिनां प्रभां दीप्तिं वोढुं धर्तुं शीलं येषां तेषाम् । सहजरम्याणामित्यर्थः । अविनयवत्या असत्याः । अत्राविनयवत्या आशयः किंचिव्द्यक्तीकृतः । किंचिच्चाव्यक्तीकृत इत्युभयरूपता ॥ इति भाविकालंकारनिरूपणम् ॥
संसृष्ट्यलंकारनिरूपणम् ।
संसृष्टिलक्षणमाह—