552
तिलतण्डुलवव्द्यक्ता छायादर्शवदेव च ।
अव्यक्ता क्षीरजलवत्पांसुपानीयवच्च257 सा ॥ ८९ ॥
व्यक्ताव्यक्ता च संसृष्टिर्नरसिंहवदिष्यते ।
चित्रवर्णवदन्यस्मिन्नानालंकारसंकरे ॥ ९० ॥

संसृष्टिरिति । नानालंकाराणां संकरोऽपि......संसृष्टिः । छायेति । प्रतिबिम्बदर्पणवदित्यर्थः । क्षीरं दुग्धम् । पांसुर्धूलिः । चित्रेति । चित्रलिखितवर्णिकावदित्यर्थः ॥

व्यक्ता तिलतण्डुलवद्यथा—

‘पिनष्टीव तरङ्गाग्रैरुदघिः फेनचन्दनम् ।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ २३८ ॥’

अत्रोत्प्रेक्षाद्व्यम्, रूपकद्व्यं च तिलतण्डुलवत्संकीर्यते ॥

पिनष्टीत्यादि । समुद्रस्तरङ्गाग्रैः फेनचन्दनं पिनष्टीव । इन्दुः करैस्तदादाय दिगङ्गना लिम्पतीव । अत्रेवशब्दाभ्यामुत्प्रेक्षाद्व्यम् । फेन एव चन्दनम्, दिश एवाङ्गना इति रूपकद्व्यम् । तदिदं मिश्रितं तिलतण्डुलवत् । यथा तिलानां तण्डुलानां च मिथो निरपेक्षाणामेव संकीर्णता तथात्रापि ॥

व्यक्तैव छायादर्शवद्यथा—

‘निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः ।
परं पर्यश्रुनयनौ मम्लतुर्भ्रातरावुभौ ॥ २३९ ॥’

अत्रादर्शे258 छायेव हेत्वलंकारे रामलक्ष्मणमुखयोरिन्दुपद्मौपम्येन सदृशासदृशव्यतिरेको दृश्यते ॥

निर्मलेत्यादि । विवृतोऽयं व्यतिरेकालंकारे । अत्र पूर्वार्धेन हेत्वलंकारे दर्शिते तदाधारक एव सदृशासदृशयोर्व्यतिरेकः । स च दर्पणे प्रतिबिम्ब इवाधाराधेयभावेन व्यवस्थापितः ॥

  1. ‘पांशुपानीयवच्च सा’ पाठः
  2. ‘अत्रादर्शच्छायेव’ ख