पिनष्टीत्यादि । समुद्रस्तरङ्गाग्रैः फेनचन्दनं पिनष्टीव । इन्दुः करैस्तदादाय दिगङ्गना लिम्पतीव । अत्रेवशब्दाभ्यामुत्प्रेक्षाद्व्यम् । फेन एव चन्दनम्, दिश एवाङ्गना इति रूपकद्व्यम् । तदिदं मिश्रितं तिलतण्डुलवत् । यथा तिलानां तण्डुलानां च मिथो निरपेक्षाणामेव संकीर्णता तथात्रापि ॥