553

अव्यक्ता क्षीरजलवद्यथा—

‘क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च ।
टङ्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत ॥ २४० ॥’

अत्रोपमोत्प्रेक्षे क्षीरनीरवन्मिश्रे संसृष्टे न व्यज्येते ॥

क्षीरेत्यादि । वसन्तश्रीर्वसन्तशोभाऽदृश्यत जनैः । कीदृशी । क्षीरेण दुग्धेन क्षालितश्चन्द्रो यस्यां सा । नीलीद्रव्येन धौतं क्षालितमम्बरमाकाशं यस्यां सा । टङ्केन पाषाणदारणेनोल्लिखित उत्खण्डितः सूर्यो यस्यां सा । ‘टङ्कः पाषाणदारणः’ इत्यमरः । अत्रोपमोत्प्रेक्षयोर्मिथो मिलनादव्यक्तता । उभयव्यञ्जकस्य तुल्यकक्षतया प्रवृत्तेरिदं बोद्धव्यम् ॥

अव्यक्तैव पांसूदकवद्यथा—

‘कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी ।
याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २४१ ॥’

अत्र पांसूदकयोरिव मृत्पिण्डे259 श्लेषविरोधयोरव्यक्तयोरेव व्याजस्तुतावङ्गभावोऽवगम्यते ॥

कृष्णेत्यादि । विवृतोऽयं भाविकालंकारे । अत्र यथा मृत्तिकापिण्डे धूलिजलयोर्मिथो मिलनादव्यक्तता तथा श्लेषविरोधयोर्व्याजस्तुतिप्रसङ्गतः संकर ॥

व्यक्ताव्यक्ता नरसिंहवद्यथा—

‘रजोभिस्तुरगोत्कीर्णैर्गजैश्च घनसंनिभैः ।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥ २४२ ॥’

अत्र नरसिंहजाताविव सिंहनरशरीरभागयोः परिवृत्त्यलंकारहेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः परिस्फुरन्नुपलभ्यते ॥

रजोभिरित्यादि । स कीदृशः । हयखुरक्षुण्णै रजोभिर्मेघतुल्यैर्हस्तिभिश्च गगनं

  1. ‘मृत्पिण्डश्लेषविरोधयोः’ घ