554 भूतलमिव, भूतलं गगनतलमिव कुर्वन् । अत्र यथा नरसिंहजातौ सिंहनराङ्गभागयोर्व्यक्ताव्यक्तरूपं स्फुरणं तथा परिवृत्त्यलंकारे हेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः ॥
व्यक्ताव्यक्तैव चित्रवर्णवद्यथा—
अत्र पटावयवस्थानां नीलादीनामिव पटावयव्याश्रिते चित्रवर्णे श्लेषरूपकोपमार्थश्लेषाणां पदपदार्थाश्रयाणां शरद्वर्णनवाक्याश्रयिणि समाध्यलंकारे व्यक्ताव्यक्तरूपोऽङ्गङ्गिभावः प्रतीयते ॥
मयूरेत्यादि । मेघा जलानि त्यजन्ति स्म । महाटवीं महारण्यमिव प्रावृषं वर्षा उल्लङ्घ्य । कीदृशीम् । मयूरशब्दमुखरां, सह तडितेव लतया वर्तते ताम् । अत्रावयवाश्रितनीलादीनामवयव्याश्रिते चित्रवर्णे यथाङ्गङ्गिभावस्तथा श्लेषादीनां समाध्यलंकारे व्यक्ताव्यक्तरूपोऽङ्गाङ्गिभावः प्रतीयत इति ॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभरणे उभयालंकारविवेचनो नाम चतुर्थः परिच्छेदः ॥
चतुर्विंशतिरिति । इत्यनेन प्रकारेण चतुर्विंशतिरेता उपमादयः काव्यालंकृतय उक्ता इत्यन्वयः । अजहल्लिङ्गतात्र ॥ उभयेति । शब्दार्थाश्रिता इत्यर्थः ॥
पञ्चमः परिच्छेदः ।
- ‘मयूरारावमुखरा’ ग↩