554 भूतलमिव, भूतलं गगनतलमिव कुर्वन् । अत्र यथा नरसिंहजातौ सिंहनराङ्गभागयोर्व्यक्ताव्यक्तरूपं स्फुरणं तथा परिवृत्त्यलंकारे हेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः ॥

व्यक्ताव्यक्तैव चित्रवर्णवद्यथा—

260मयूरारावमुखरां प्रावृषं सतडिल्लताम् ।
महाटवीमिवोल्लङ्घ्य तोयानि मुमुचुर्घनाः ॥ २४३ ॥’

अत्र पटावयवस्थानां नीलादीनामिव पटावयव्याश्रिते चित्रवर्णे श्लेषरूपकोपमार्थश्लेषाणां पदपदार्थाश्रयाणां शरद्वर्णनवाक्याश्रयिणि समाध्यलंकारे व्यक्ताव्यक्तरूपोऽङ्गङ्गिभावः प्रतीयते ॥

मयूरेत्यादि । मेघा जलानि त्यजन्ति स्म । महाटवीं महारण्यमिव प्रावृषं वर्षा उल्लङ्घ्य । कीदृशीम् । मयूरशब्दमुखरां, सह तडितेव लतया वर्तते ताम् । अत्रावयवाश्रितनीलादीनामवयव्याश्रिते चित्रवर्णे यथाङ्गङ्गिभावस्तथा श्लेषादीनां समाध्यलंकारे व्यक्ताव्यक्तरूपोऽङ्गाङ्गिभावः प्रतीयत इति ॥

चतुर्विंशतिरित्येताः क्रमेणोभयसंश्रयाः ।
काव्यालंकृतयः प्रोक्ता यथावदुपमादयः ॥ ९१ ॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभरणे उभयालंकारविवेचनो नाम चतुर्थः परिच्छेदः ॥

चतुर्विंशतिरिति । इत्यनेन प्रकारेण चतुर्विंशतिरेता उपमादयः काव्यालंकृतय उक्ता इत्यन्वयः । अजहल्लिङ्गतात्र ॥ उभयेति । शब्दार्थाश्रिता इत्यर्थः ॥

रत्नं रत्नधरोऽजनिष्ट गुणिनामाद्योऽनवद्यः सतां सा शुद्धा दमयन्तिकापि सुषुवे नैयायिकं यं सुतम् ।
तस्य श्रीशजगद्धरस्य कवितुर्वाणीगणा(ला)लंकृते- ष्टीकायामुभयप्रकाशनपरिच्छेदश्चतुर्थो गतः ॥
इति महामहोपाध्यायधर्माधिकरणिकश्रीजगद्धरविरचिते सरस्वतीकण्ठाभरणविवरणे चतुर्थः परिच्छेदः ॥

पञ्चमः परिच्छेदः ।

  1. ‘मयूरारावमुखरा’ ग