मयूरेत्यादि । मेघा जलानि त्यजन्ति स्म । महाटवीं महारण्यमिव प्रावृषं वर्षा उल्लङ्घ्य । कीदृशीम् । मयूरशब्दमुखरां, सह तडितेव लतया वर्तते ताम् । अत्रावयवाश्रितनीलादीनामवयव्याश्रिते चित्रवर्णे यथाङ्गङ्गिभावस्तथा श्लेषादीनां समाध्यलंकारे व्यक्ताव्यक्तरूपोऽङ्गाङ्गिभावः प्रतीयत इति ॥