अकस्मादित्यादि । हे चण्डि कोपने, तव स्फुरिताधरपल्लवं मुखं कर्तृ, अकस्मादेव कारणं विनैव मौक्तिकच्छाया घर्माम्बुकणमञ्जरीर्धत्ते बिभर्ति । अत्रापीति । यथैकदेशोपमायामवयवानां प्राधान्यं तथात्राप्यवयवानामेव प्राधान्यादसमस्तरूपकत्वम् । एवं चावयविनो मुखस्य रूपकाभावादवयवरूपकमिदमिति भावः । सहजावयवताधरे आहार्यावयवतौपचारिक्यवयवता घर्माम्भःकणस्यावयवाश्रयत्वात् । उपमानावयविनो लताख्यस्य । शब्दभूयिष्ठरूपकभेदासमस्तरूपकादस्य भेदमाह—अत्रापीति । इहोक्तयुक्त्यार्थप्राधान्यमिति भेदः ॥