420 तर्ह्यर्चिषामेव रूपकत्वमस्तु, तथापि स दोषस्तदवस्थ एवेत्यत आह—ताश्चेति । ता अर्चिषः । पाणिपद्मानीत्यत्र रूपकत्वे दोषतादवस्थ्यादाह—पाणीति । जिगीषुभाववर्णनायां मुख्यत्वेनाङ्गतया पाणिपद्माद्यन्वय इति शब्दप्राधान्यमेव । प्रकृते तु चरणादेरवयविनः प्रधानक्रियान्वय इत्यर्थप्राधान्यमिति भेदः ॥

असमस्तं यथा—

‘अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् ।
मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥ ३४ ॥’

अत्राप्येकदेशोपक्रमेणाधरपल्लवस्वेदाम्बुकणमञ्जरीणां सहजाहार्यावयवानामभिधानादुपमानावयविनश्चानभिधानादिदमसमस्तं नाम रूपकमङ्गिप्रधानेष्वर्थभूयिष्ठरूपकभेदः । अत्रापि च स्फुरिताधरपल्लवमिति विशेषणविशिष्टस्य मुख्यवस्तुनः घर्माम्भःकणमञ्जरीधारणक्रियासमावेशः प्राधान्यं स्थापयति ॥

अकस्मादित्यादि । हे चण्डि कोपने, तव स्फुरिताधरपल्लवं मुखं कर्तृ, अकस्मादेव कारणं विनैव मौक्तिकच्छाया घर्माम्बुकणमञ्जरीर्धत्ते बिभर्ति । अत्रापीति । यथैकदेशोपमायामवयवानां प्राधान्यं तथात्राप्यवयवानामेव प्राधान्यादसमस्तरूपकत्वम् । एवं चावयविनो मुखस्य रूपकाभावादवयवरूपकमिदमिति भावः । सहजावयवताधरे आहार्यावयवतौपचारिक्यवयवता घर्माम्भःकणस्यावयवाश्रयत्वात् । उपमानावयविनो लताख्यस्य । शब्दभूयिष्ठरूपकभेदासमस्तरूपकादस्य भेदमाह—अत्रापीति । इहोक्तयुक्त्यार्थप्राधान्यमिति भेदः ॥

युक्तं यथा—

‘स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम् ।
न कस्य नन्दनं सुभ्रु सुरभिश्वसितानिलम् ॥ ३५ ॥’

अत्र स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्ग सुरभिश्वसितानिलं ते मुखं न कस्य नन्दनमिति पुष्पभृङ्गादीनां परस्परं युक्त्युपपत्तेर्युक्तं नामायमङ्गाङ्गिप्रधानरूपकेष्वर्थभूयिष्ठो रूपकभेदः । अत्र यद्यपि नन्दनमिव नन्दन-