430 चिरोत्सृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम् ॥ रागायतनसंस्मारि यदि न स्यान्नखक्षतम् । रेखास्तिस्रश्चतस्रश्च वक्रा वक्राकृतिर्नखः ॥’ इति । अत्र श्लेषालंकारेणोपहितत्वादेव संकीर्णरूपकता ॥ इति रूपकालंकारनिरूपणम् ।

साम्यालंकारनिरूपणम् ।

साम्यलक्षणमाह—

द्वयोर्यत्रोक्तिचातुर्यादौपम्यार्थोऽवगम्यते ।
उपमारूपकान्यत्वे साम्यमित्यामनन्ति तत् ॥ ३४ ॥
तदानन्त्येन भेदानामसंख्यं तस्य तूक्तयः ।
दृष्टान्तोक्तिः प्रपञ्चोक्तिः प्रतिवस्तूक्तिरेव च ॥ ३५ ॥
तत्रेवादेः प्रयोगेण दृष्टान्तोक्तिं प्रचक्षते ।
इवादेरप्रयोगेण प्रपञ्चोक्तिं मनीषिणः ॥ ३६ ॥
वस्तु किंचिदुपन्यस्य न्यसनात्तत्सधर्मणः ।
साम्यप्रतीतिरस्तीति प्रतिवस्तूक्तिरुच्यते ॥ ३७ ॥
तत्र क्रियाजातिगुणद्रव्ययोगादिहेतुके ।
साम्ये पूर्वादिभेदेन दृष्टान्तोक्तिर्विधीयते ॥ ३८ ॥

सा क्रियायोगनिमित्तसाम्या दृष्टान्तोक्तिः सामान्यतः पूर्वा यथा—

‘स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ ४९ ॥’

अत्र दृष्टान्तदार्ष्टान्तिकयोरनाविष्टलिङ्गत्वादवश्याभिधेयत्वाच्च स्थित इत्यादिषु न लिङ्गभेददोषः । अभिधीयमानस्थानादिक्रियायोगजनितं साम्यं समस्तमूर्तिमत्साधारणश्च पूर्वमेव छायादृष्टान्तः । सेयं क्रियायोगनिमित्तसाम्या सामान्यतः पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः ॥