430 चिरोत्सृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम् ॥ रागायतनसंस्मारि यदि न स्यान्नखक्षतम् । रेखास्तिस्रश्चतस्रश्च वक्रा वक्राकृतिर्नखः ॥’ इति । अत्र श्लेषालंकारेणोपहितत्वादेव संकीर्णरूपकता ॥ इति रूपकालंकारनिरूपणम् ।
साम्यालंकारनिरूपणम् ।
साम्यलक्षणमाह—
सा क्रियायोगनिमित्तसाम्या दृष्टान्तोक्तिः सामान्यतः पूर्वा यथा—
अत्र दृष्टान्तदार्ष्टान्तिकयोरनाविष्टलिङ्गत्वादवश्याभिधेयत्वाच्च स्थित इत्यादिषु न लिङ्गभेददोषः । अभिधीयमानस्थानादिक्रियायोगजनितं साम्यं समस्तमूर्तिमत्साधारणश्च पूर्वमेव छायादृष्टान्तः । सेयं क्रियायोगनिमित्तसाम्या सामान्यतः पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः ॥