605
अत्राभिमतप्रतिद्वन्द्विलाभाल्लवानुपदी कुशस्तुष्यति ॥
586वैषयिकीषु शब्दे यथा—
स्पर्शे यथा—
‘प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ १०० ॥’
रुपे यथा—
‘अयमभिनवमेघश्यामलोत्तुङ्गसानु-
र्मदमुखरमयूरीमु591क्तसंसक्तकेकः ।
शकुनिशबलनीडानोकहस्निग्धवर्ष्मा
वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ १०१ ॥’
रसे यथा—
गन्धे यथा—
‘कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र 594स्रुतक्षीरतया प्रसूतः सानूनि गन्घः सुरभीकरोति ॥ १०३’
उपलक्षणं चैतत् । तेनोत्साहस्य युद्धदानदयावीरादयः, क्रोधस्य