605

अत्राभिमतप्रतिद्वन्द्विलाभाल्लवानुपदी कुशस्तुष्यति ॥

586वैषयिकीषु शब्दे यथा—

‘लावण्यैः क्षणदाविराममधुराः किंचिद्विनिद्रालस587श्रोत्रैः सव्रणमुग्धचारणवधूदन्तच्छदावासिनः ।
पीयन्ते मृदुत्रक्रपीतमरुतः पौराणरीतिक्रम588व्यालोलाङ्गुलिरुद्धशुक्त589सुषिरश्रेणीरवा590 वेणवः ॥ ९९ ॥’

स्पर्शे यथा—

‘प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ १०० ॥’

रुपे यथा—

‘अयमभिनवमेघश्यामलोत्तुङ्गसानु- र्मदमुखरमयूरीमु591क्तसंसक्तकेकः ।
शकुनिशबलनीडानोकहस्निग्धवर्ष्मा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ १०१ ॥’

रसे यथा—

‘इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य592 च ।
593वराहस्य च मांसस्य सोऽयं गच्छति फाल्गुनः ॥ १०२ ॥’

गन्धे यथा—

‘कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र 594स्रुतक्षीरतया प्रसूतः सानूनि गन्घः सुरभीकरोति ॥ १०३’

उपलक्षणं चैतत् । तेनोत्साहस्य युद्धदानदयावीरादयः, क्रोधस्य

  1. ‘वैषयिकी यथा—’ क
  2. ‘विनिद्रालसं’ क ख
  3. ‘गीतिक्रम’ क ख
  4. ‘मुक्त’ क ख
  5. ‘श्रेणीधरा’ क ख
  6. ‘बद्धविश्रब्धनृत्यः’ घ
  7. ‘पिष्टघृतस्य’ क ख
  8. ‘वराहस्य’ क ख
  9. ‘स्नुत’ ग