606 595भाममन्यूत्प्रासादयः, हासस्य स्मितहसितविहसितादयः, 596सुप्तप्रलयमत्यादीनां तु597 स्वप्नमरणशमादयो भेदा जायन्ते । तत्र यद्यपि ‘अजित्वा सार्णवामुर्वीम्’ इत्यनेन युद्धवीरः, ‘अनिष्ट्वा विविधैर्मखैः’ इत्यनेन दानवीरः, ‘अदत्त्वा चार्थमर्थिभ्यः’ इत्यनेन दयावीरश्चोत्साहरूपेण निष्पत्तौ वर्णितः598, 599तथाप्येकशोऽप्येते रसनिष्पत्त्यै प्रभवन्तीति प्रदर्श्यन्ते ॥

तेषु युद्धवीरो यथा—

‘एतां पश्य 600पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते- र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् १०४’

दानवीरो यथा—

‘दधिक्षीरघृताम्भोधिव्यञ्जनस्पृहणीयया ।
महादानोत्सवे यस्य हन्तकारायितं भुवा ॥ १०५ ॥’

दयावीरो यथा—

‘स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं यतस्व ।
दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षेः ॥ १०६ ॥’

क्रोधस्य यद्यपि 601भामादयो 602मानभेदाश्चतुर्विंशतिः संभवन्ति तथापि ललिताललितोभयभेदेन रूपेण क्रमेण सर्वसंग्रहात्तत्र त्रय एव प्रकाराः प्रदर्श्यन्ते ॥

  1. ‘भीममन्युत्रासादयः’ क ख
  2. ‘प्रसुप्तप्रलयमत्यादीनां’ क ख
  3. ‘तु’ ख क पुस्तकयोर्नास्ति
  4. ‘रसनिष्पत्तौ वर्तते’ क ख
  5. ‘तथाप्येकशोऽप्येतद्रसनिष्पत्तिरस्तीति प्रदर्श्यन्ते’ क ख
  6. ‘पुरस्तटी’ क ख
  7. ‘भीकादयो’ क , ‘क्रोधस्य भीमादयो’ ख
  8. ‘मानभेदाः’ इत्यस्य ‘विशेषाः’ इति टिप्पणरूपेण घ, ‘विशेषाः’ क ख