607

तेषु स्त्रीणां 603ललितकोपो भामो यथा—

‘भ्रूभेदिभिः प्रकम्पौष्ठैर्ललिताङ्गुलितर्जनैः ।
यत्र कोपैः कृता स्रीणां संप्रसादार्थिनः प्रियाः ॥ १०७ ॥’

प्रियापराधजन्मा दुःखोत्पीडो मन्युर्यथा—

‘धणुओवप्पणवल्लरिविरइअकण्णावअंसदुप्पेच्छे ।
वाहगुरुआ604 605णिसम्मइ वाहीएअ बहुमुहे दिट्ठी ॥ १०८ ॥’
[धनुधन्वपनवल्लरीविरचितकर्णावतंसदुष्प्रेक्ष्ये ।
बाष्पगुरुका निशाम्यति बाध्या वधूमुखे दृष्टिः ॥]

नन्वियमीर्ष्या कस्मान्न भवति, नात्र 606मानदानामर्षमात्रं विवक्षितमपि तु तज्जनितो दुःखातिशय इति ॥

प्रियादिषु व्याजनिन्दोत्प्रासो यथा—

‘पहवंति च्चिअ607 पुरिसा महिलाणं किं 608थ सुहअ विहिओसि ।
609अणुराअणोल्लिआए को दोसो 610आहिजाईए ॥ १०९ ॥’
[प्रभवन्त्येव पुरुषा महिलानां किमत्र सुभग विहितोऽसि ।
अनुरागनोदितायाः को दोष आभिजात्यायाः ॥]

हासस्य यद्यप्युपहासादयो भेदाः संभवन्ति तथापि विहसितेन तेषां 611संग्रहादीषन्न्यूनाधिकमिति 612त्रयस्तद्भेदा उदाह्रियन्ते—

तत्रेषद्धसितं स्मितं यथा—

‘पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।’
  1. ‘ललितः कोपाभावो यथा’ क ख
  2. ‘वाहगरुई’ क ख
  3. ‘निसम्मइ’ घ
  4. ‘मानदानामर्षणमात्रंविवक्षा’ क ख
  5. ‘व्विअ’ क
  6. ‘खु’ क ख
  7. ‘लोल्लिआए’ क ख
  8. ‘अपहजाइए’ क , ‘आहिजाइए’ ख
  9. ‘अपसंग्रहात्’ ख
  10. ‘त्रयस्त्रिशद्भेदाः’ घ