608
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ ११० ॥’

दृष्टदशनकान्ति हसितं यथा—

‘तिमिरनिरुद्धभीमरजनीमुखचन्द्रिकया 613गणपतिताण्डवाभिनयदर्शनदीपिकया ।
अभिभवसि त्वमद्य शशिनः 614श्रियमुत्कटया दशनमयूखमञ्जरितया हसितप्रभया ॥ १११ ॥’

तदेव सविशेषं 615हसितं यथा—

‘च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्व्यं चक्रीकृत्य प्रहसितमुखी616 शैलतनया ।
अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ ११२ ॥’

सुप्तविशेषः स्वप्नो यथा—

‘जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः ।
नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां617 भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ ११३ ॥’

मूर्च्छाविशेषो मरणं यथा—

‘क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वंला ।
निमिमील नरेन्द्रसुन्दरी हृतचन्द्रा तमसेव शर्वरी ॥ ११४ ॥’
  1. ‘गणयति’ ख
  2. ‘श्रियमुत्कण्ठया’ ख
  3. ‘विहसितम्’ क ख
  4. ‘प्रहसितवती’ घ
  5. ‘क्षणं’ क ख