609
मतिविशेषः 618शमो यथा—
‘यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ ११५ ॥’
तत्राश्रयस्त्रिधा—पुमान्—स्त्री—तिर्यगादयः ॥
तेषु पुमान् यथा—
‘आश्चर्यमुत्पलदृशो वदनामलेन्दु-
सांनिध्यतो मम मुहुर्जडिमानमेत्य ।
जात्येन622 चन्द्रमणिनेव महीधरस्य
संधार्यते द्रवमयो मनसा विकारः ॥ ११६ ॥’
स्त्री यथा—
तिर्यगादिषु यथा—
‘उत्कूजति श्वसिति मुह्यति याति तीरं
तीरात्तरुं तरुतलात्पुनरेति625 वापीम् ।