610
वाप्यां न रज्यति न चात्ति मृणालखण्डं चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ ११८ ॥’

विषयस्त्रिधा—चेतनः, तिर्यगू, अचेतनश्च ॥

तेषु चेतनो यथा—

‘इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत् ।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः ॥ ११९ ॥’

तिर्यगू यथा—

‘आयाते दयिते मरुस्थलभुवां 626संचिन्त्य दुर्लङ्घ्यतां 627गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं 628मुखे ।
दत्त्वा पीलुशमीकरीरकवलान् 629स्वेनाञ्चलेनादरा- दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं630 रजः ॥ १२० ॥’

अचेतनो यथा—

‘क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् ।
सस्मार वारणपतिः परिमीलिताक्ष- मिच्छाविहारवनवासमहोत्सवानाम्631 ॥ १२१ ॥’

ज्ञानं त्रिधा—दृष्टम्, श्रुतम्, अनुमानजं च ॥

  1. ‘उद्वीक्ष्य’ सुभाषितावलौ, ‘उत्प्रेक्ष्य’ शार्ङ्गरधरपद्धतौ
  2. ‘तन्वङ्ग्या’ सुभाषितावलौ, ‘गेहिन्याः’ ख
  3. ‘मयि’ क ख
  4. ‘लोलाञ्चलेन’ शार्ङ्गधरपद्धतौ
  5. ‘भारावलग्नं रजः’ सुभाषितावलौ
  6. ‘महोत्सवान्तम्’ ख